|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.156. अध्यायः 156
Mahabharata - Adi Parva - Chapter Topics
दुर्योधनादेशात् पुरोचनेन वारणावते जतुगृहनिर्माणम्॥ 1 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-156-0x(923)(7141)
धृतराष्ट्रप्रयुक्तेषु पाण्डुपुत्रेषु भारत।
दुर्योधनः परं हर्षमगच्छत्स दुरात्मवान्॥ 1-156-1(7142)
`ततः सुबलपुत्रश्च कर्णदुर्योधनावपि।
दहने सह पुत्रायाः कुन्त्या मतिमकुर्वत।
मन्त्रयित्वा स तैः सार्धं दुरात्मा धृतराष्ट्रजः॥' 1-156-2(7143)
स पुरोचनमेकान्तमानीय भरतर्षभ।
गृहीत्वा दक्षिणे पाणौ सचिवं वाक्यमब्रवीत्॥ 1-156-3(7144)
ममेयं वसुसंपूर्णा पुरोचन वसुन्धरा।
यथैव भविता तात तथा त्वं द्रष्टुमर्हसि॥ 1-156-4(7145)
न हि मे कश्चिदन्योऽस्ति विश्वासिकतरस्त्वया।
सहायो येन सन्धाय मन्त्रयेयं यथा त्वया॥ 1-156-5(7146)
संरक्ष तात मन्त्रं च सपत्नांश्च ममोद्धर।
निपुणेनाभ्युपायेन यद्ब्रवीमि तथा कुरु॥ 1-156-6(7147)
पाण्डवा धृतराष्ट्रेण प्रेषिता वारणावतम्।
उत्सवे विहरिष्यन्ति धृतराष्ट्रस्य शासनात्॥ 1-156-7(7148)
स त्वं रासभयुक्तेन स्यन्दनेनाशुगामिना।
वारणावतमद्यैव यथा यासि तया कुरु॥ 1-156-8(7149)
तत्र गत्वा चतुःशालं गृहं परमसंवृतम्।
नगरोपान्तमाश्रित्य कारयेथा महाधनम्॥ 1-156-9(7150)
शणसर्जरसादीनि यानि द्रव्याणि कानिचित्।
आग्नेयान्युत सन्तीह तानि तत्र प्रदापय॥ 1-156-10(7151)
`बल्वजेन च संमिश्रं मधूच्छिष्टेन चैव हि।'
सर्पिस्तैलवसाभिश्च लाक्षया चाप्यनल्पया।
मृत्तिकां मिश्रयित्वा त्वं लेपं कुड्येषु दापय॥ 1-156-11(7152)
शणं तैलं घृतं चैव जतु दारूणि चैव हि।
तस्मिन्वेश्मनि सर्वाणि निक्षिपेथाः समन्ततः॥ 1-156-12(7153)
`लाक्षाशममधूच्छिष्टवेष्टितानि मृदापि च।
लेपयित्वा गुरूण्याशु दारुयन्त्राणि दापय॥' 1-156-13(7154)
यथा च तन्न पश्येरन्परीक्षन्तोऽपि पाण्डवाः।
आग्नेयमिति तत्कार्यमपि चान्येऽपि मानवाः॥ 1-156-14(7155)
वेश्मन्येवं कृते तत्र कृत्वा तान्परमार्चितान्।
वासयेथाः पाण्डवेयान्कुन्तीं च ससुहृज्जनाम्॥ 1-156-15(7156)
आसनानि च दिव्यानि यानानि शयनानि न।
निघातव्यानि पाण्डूनां यथा तुष्येच्च मे पिता॥ 1-156-16(7157)
यथा च तन्न जानन्ति नगरे वारणावते।
`यथा रमेरन्विस्रब्धा नगरे वारणावते।'
तथा सर्वं विधातव्यं यावत्कालस्य पर्ययः॥ 1-156-17(7158)
ज्ञात्वा च तान्सुविश्वस्ताञ्शयानानकुतोभयान्।
अग्निस्त्वया ततो देयो द्वारतस्तस्य वेश्मनः॥ 1-156-18(7159)
दग्धानेवं स्वके गेहे दाहिताः पाण्डवा इति।
न गर्हयेयुरस्मान्वै पाण्डवार्थाय कर्हिचित्॥ 1-156-19(7160)
स तथेति प्रतिज्ञाय कौरवाय पुरोचनः।
प्रायाद्रासभयुक्तेन स्यन्दनेनाशुगामिना॥ 1-156-20(7161)
स गत्वा त्वरितं राजन्दुर्योधनमते स्थितः।
यथोक्तं राजपुत्रेण सर्वं चक्रे पुरोचनः॥ 1-156-21(7162)
`तेषां तु पाण्डवेयानां गृहं रौद्रमकल्पयत्॥' ॥ 1-156-22(7163)
इति श्रीमन्महाभारते आदिपर्वणि जतुगृहपर्वणि षट्पञ्चाशदधिकशततमोऽध्यायः॥ 156 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-156-6 उद्धर उन्मूलय॥ 1-156-10 आग्नेयान्यग्निसंदीपकानि॥ षट्पञ्चाशदधिकशततमोऽध्यायः॥ 156 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|